हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sundarakanda Sarga (Chapter) 13 – सुन्दरकाण्ड त्रयोदश सर्गः(१३)


॥ हनूमन्निर्वेदः ॥

विमानात्तु सुसङ्क्रम्य प्राकारं हरिपुङ्गवः । [यूथपः]
हनुमान्वेगवानासीद्यथा विद्युद्घनान्तरे ॥ १ ॥

सम्परिक्रम्य हनुमान्रावणस्य निवेशनात् ।
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥

भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ।
न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥ ३ ॥

पल्वलानि तटाकानि सरांसि सरितस्तथा ।
नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ॥ ४ ॥

लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ।
इह सम्पातिना सीता रावणस्य निवेशने ॥ ५ ॥

आख्याता गृध्रराजेन न च पश्यामि तामहम् ।
किं नु सीताऽथ वैदेही मैथिली जनकात्मजा ॥ ६ ॥

उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ।
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ॥ ७ ॥

बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ।
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते ॥ ८ ॥

मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ।
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ॥ ९ ॥

तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ।
उपर्युपरि वा नूनं सागरं क्रमतस्तदा ॥ १० ॥

विवेष्टमाना पतिता समुद्रे जनकात्मजा ।
अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः ॥ ११ ॥

अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ।
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ॥ १२ ॥

अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ।
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ॥ १३ ॥

रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ।
हा राम लक्ष्मणेत्येवं हायोध्ये चेति मैथिली ॥ १४ ॥

विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ।
अथवा निहिता मन्ये रावणस्य निवेशने ॥ १५ ॥

नूनं लालप्यते सीता पञ्जरस्थेव शारिका ।
जनकस्य सुता सीता रामपत्नी सुमध्यमा ॥ १६ ॥

कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ।
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ॥ १७ ॥

रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ।
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ॥ १८ ॥

कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ।
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम् ॥ १९ ॥

भवेदिति मतं भूयो हनुमान्प्रविचारयन् ।
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ॥ २० ॥

गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ।
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ॥ २१ ॥

प्रवेशश्चैव लङ्काया राक्षसानां च दर्शनम् ।
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ॥ २२ ॥

किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ ।
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ॥ २३ ॥

न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ।
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ॥ २४ ॥

सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ॥ २५ ॥

भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ।
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ॥ २६ ॥

भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ।
पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः ॥ २७ ॥

कौसल्या च सुमित्रा च कैकेयी च न संशयः ।
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ॥ २८ ॥

रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ।
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥ २९ ॥

पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ।
वालिजेन तु दुःखेन पीडिता शोककर्शिता ॥ ३० ॥

पञ्चत्वं च गते राज्ञि तारापि न भविष्यति ।
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ॥ ३१ ॥

कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् ।
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः ॥ ३२ ॥

शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ।
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ॥ ३३ ॥

लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ।
न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥ ३४ ॥

क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ।
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः ॥ ३५ ॥

शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ।
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा ॥ ३६ ॥

उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ।
घोरमारोदनं मन्ये गते मयि भविष्यति ॥ ३७ ॥

इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ।
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ॥ ३८ ॥

न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ।
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ॥ ३९ ॥

आशया तौ धरिष्येते वानराश्च मनस्विनः ।
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ॥ ४० ॥

वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ।
सागरानूपजे देशे बहुमूलफलोदके ॥ ४१ ॥

चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ।
उपविष्टस्य वा सम्यग्लिङ्गिनीं साधयिष्यतः ॥ ४२ ॥

शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ।
इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ॥ ४३ ॥

सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ।
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ॥ ४४ ॥

प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ।
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ॥ ४५ ॥

नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ।
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ॥ ४६ ॥

अङ्गदः सह तैः सर्वैर्वानरैर्न भविष्यति ।
विनाशे बहवो दोषा जीवन्भद्राणि पश्यति ॥ ४७ ॥

तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवित सङ्गमः ।
एवं बहुविधं दुःखं मनसा धारयन्मुहुः ॥ ४८ ॥

नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ।
रावणं वा वधिष्यामि दशग्रीवं महाबलम् ॥ ४९ ॥

काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ।
अथ वैनं समुत्‍क्षिप्य उपर्युपरि सागरम् ॥ ५० ॥

रामायोपहरिष्यामि पशुं पशुपतेरिव ।
इति चिन्तां समापन्नः सीतामनधिगम्यताम् ॥ ५१ ॥

ध्यानशोकपरीतात्मा चिन्तयामास वानरः ।
यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ॥ ५२ ॥

तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ।
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम् ॥ ५३ ॥

अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् ।
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ॥ ५४ ॥

न मत्कृते विनश्येयुः सर्वे ते नरवानराः ।
अशोकवनिका चेयं दृश्यते या महाद्रुमा ॥ ५५ ॥

इमामधिगमिष्यामि न हीयं विचिता मया ।
वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च ॥ ५६ ॥

नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ।
जित्वा तु राक्षसान्सर्वानिक्ष्वाकुकुलनन्दिनीम् ॥ ५७ ॥

सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने ।
स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः ।
उदतिष्ठन्महातेजा हनूमान्मारुतात्मजः ॥ ५८ ॥

नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो
नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ५९ ॥

स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः ।
दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति ॥ ६० ॥

स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ।
उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१ ॥

ध्रुवं तु रक्षो बहुला भविष्यति वनाकुला ।
अशोकवनिकाऽचिन्त्या सर्वसंस्कारसंस्कृता ॥ ६२ ॥

रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ।
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ ६३ ॥

सङ्क्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च ।
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४ ॥

ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे ।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ ६५ ॥

वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ।
अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥ ६६ ॥

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।
दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ ६७ ॥

तदुन्नसं पाण्डुरदन्तमव्रणं
शुचिस्मितं पद्मपलाशलोचनम् ।
द्रक्ष्ये तदार्यावदनं कदान्वहं
प्रसन्नताराधिपतुल्यदर्शनम् ॥ ६८ ॥

क्षुद्रेण पापेन नृशंसकर्मणा
सुदारुणालङ्कृतवेषधारिणा ।
बलाभिभूता ह्यबला तपस्विनी
कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ ६९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयोदशः सर्गः ॥ १३ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.